अर्चिरादि-द्वितीय प्रकरणम् (संस्कृत मूल)

।। श्रीलोकगुरवे नमः ।। ।। श्रीमद्वरवरमुनये नमः ।

51608139_388597565039179_3606285026846572544_n

तत्र प्रथममर्चिः प्राप्य तस्मिन् किंचिद्दूरं गमयति, ततोऽहः शुक्ल पक्षाभिमानिनमुत्तरायणाभिमानिनं सम्वत्सराभिमानिनं वायुं च प्राप्य तेषु च मार्गमतिवाहयत्सु

*प्रविश्य च सहस्रांशुम्* *तिग्मकिरणमण्डलान्त:* इत्युक्तप्रकारेण हिरण्मय  कालचक्रप्रवर्तकरथस्य सहस्रांशोर्ममण्डलं दुर्निरीक्ष्य निरवधिकतेजोभिरभिमुखं गच्छन् द्वितीय इवादित्यः प्राप्य, तन्मण्डलं भित्त्वा तत: परं गत्वा च

क्रमाच्चन्द्रमसं प्राप्य* इत्युक्तप्रकारेण ग्रहनक्षत्रतारकानिर्वाहकम् अमृतात्मकं चन्द्रमसं प्राप्य तेन सत्कृतस्ततो गत्वा अमानवं प्राप्य तेन मार्गमतिवाहितः, सर्वाप्यायकं वरुणं त्रैलोक्यपालकमिन्द्रं मोक्ष्यमाणान् सर्वप्रकारेण श्लाघमाणान् सुरासुरगन्धर्वयक्षराक्षसादीनां निर्वाहकं प्रजापतिं च प्राप्य, तल्लोकांश्चातिक्रम्य अण्डं दशोत्तरावरणसप्तकम् अनवधिकप्रमाणां मूलप्रकृतिं चातिक्रामति । तदा च, पूर्वं संसारित्वदशायाम् अन्धकारावृते नीरच्छाया शून्ये। भीतोऽस्म्यहं महादेव! श्रुत्वा मार्गस्य विस्तरम् । इत्युक्तप्रकारेण श्रवणसमयेऽपि कम्पोत्पादके क्रूरमार्गे यमभटपाशैः पुत्रदारमयैश्च पाशैर्बद्धे यमभटैराकृष्माणे श्वभिरू्वोर्जङ्घयोः शक्तिशंङ्कुतोमरसायकशूलादिभिस्ताड्यमाने व्याघ्रराक्षसकिंकराणामभ्याहारभूते स्रवन्मेदोरक्तसर्वशरीरे क्षुत्पिपासाधिक्येन दूतानन्नजले प्रार्थ्य तै: भग्ननासामुखोष्ठदन्ते त्रुटितपाणिपादे चाक्रुश्य गच्छति तदा जातं दु:खं यथा निवर्तेत तथा विधेन सुखोत्तरेण मार्गेण एतत्सीमोल्लंघनकालमारभ्य पश्यद्भिः सर्वैरपि सत्कृत: स्वपाथेयभूतलोकविक्रान्तचरणकमलवत् शीघ्रगमनेन गत्वा, शब्दस्पर्शादिसिंहव्याघ्रादीनतिक्रम्य संसारमहागुल्मान्निष्क्रम्य निवृत्ततापत्रयदवदहनान्तः पतनजसमस्तक्लेशः

*ततस्तु विरजातीरप्रदेशम्*  स आगच्छति विरजां नदीम्* इत्युक्तप्रकारेण अमृतवाहिनीम् वैतरणीप्रतिकोटिभूतां विरजां प्राप्य दृढपड्कं सवासनारेणुंच प्रक्षाल्य मेघावृतादित्यमण्डलवत् राहुग्रस्तचन्द्रमण्डलवत् पंकदिग्धमाणिक्यवच्च मलिनदेहान्तः स्थित्या तिरोहितस्वरूपोऽयं निवृत्तशरीरः * तत्तोयस्पर्शमात्रेण* इत्युक्तप्रकारेण विरजाजलस्पर्शतिरोधायकसूक्ष्मशरीररस्य निवृत्ततया  *सूर्यकोटिप्रतीकाश: * इत्युक्तप्रकारेण एकदोदितानेकसहस्रादित्यवद्दुर्निरीक्ष्यनिरवधिकतेजोयुक्तः *अमानवं समासाद्य * इत्युक्तप्रकारेण चतुर्भुजं शङ्खचक्रधरं विरजोत्तरकूलस्थितममानवमासाद्य तेन पाणिना स्पृष्ट: लावण्यसौन्दर्यादिकल्याणगुणाकरं शुद्धसत्वमयं भगवदनुभवैकपरिकरं विग्रहं प्राप्य, कर्मसाध्यान्नश्वरात् गुणत्रयात्मकात् इन्द्रादिपदाद्विलक्षणं भगवत्प्रसादसाध्यं नित्यं शुद्धसत्वात्मकं

*नास्ति खलु सुखम् *  इत्युक्तप्रतिकोटिभूतम् अनवधिकानन्दाद्वितीयदेश भूतम् अन्धकारावहमहाभूमिविलक्षणं वैशद्यावहं सनकादिमनसोऽप्यगोचरं भगवदानुकुल्यैकभोगैः नित्यमुक्तैः परिपूर्णं तैरपि परिच्छेत्तुमयोग्येनैश्वर्येण स्वभावेन च युक्तं दिव्यदेशं नेत्राभ्यां दृष्ट्वा प्रणम्य, अमानवपरिसरे शंखकाहलभेरीणां ध्वनिं श्रुत्वा

* धावन्ति स्खलन्ति पृणन्ति आगच्छति अस्मदुपकारकः कुत्रेति पृच्छन्ति | * अपश्यामापश्यामापश्याम नेत्रयोर्भोग्यमपश्याम भक्तास्सर्वेऽप्यागच्छत इति वदन्ति, एवं महाकोलाहलं कृत्वा संघशस्संघशो निष्क्रम्यागच्छतां नित्यमुक्तानामानन्दकलकलं दृष्ट्वाऽनुभवन, महता प्रत्यय गच्छति। तदा

* तं पंचशतान्यप्सरसां प्रतिधावन्ति* *तत्रागत्य च ते देवाः साध्याश्च विमलाशयाः* इत्युक्तप्रकारेण दिव्यमाला-दिव्यांजन-दिव्यचूर्णदिव्यवस्त्र प्रभृतीन्यादाय पंचशतान्यप्सरसो नित्यसूरयश्च सम्मुखमागत्य *तं ब्रह्मालंकारेण* ब्रह्मालंक्रिया* इत्युक्तप्रकारेण तमलंकृत्य प्रसादभूतवस्त्रमाल्यदिव्याभरणदिव्यांगरागप्रभृतिभिरलंकृतं दृष्ट्वा

*अहो! भूषणधारणमिदम् ! वस्त्रधारण मिदं ! कान्तिरियम् ! स्वभावोऽयम् !

इति विस्मित हृदयाः श्लाघ्यन्ते। अनन्तरमनेकसहसैः पताकैः मुक्तादामभिः वितानैश्चालंकृतं दिव्यस्त्रीपरिवृतं भगवत्संकल्पकल्पितं दिव्यविमानं गरुत्मानानयति। तत्र तमारोप्य स्तुवन्तः तिल्यकान्तारपर्यन्तं गच्छन्ति । तत्र नानाविधोपकरणादिदघत्योऽन्याः काश्चनाप्सरसोऽभिमुखं स्तुत्वा सत्कुवन्ति। अनन्तरं तिल्यगन्धब्रह्मगन्धप्रभृतीन् अप्राकृतगन्धानाघ्राय सर्वगन्धो भूत्वा *पताकालंकृतमहाप्राकारगोपुराणि प्राप्तवन्तः* इत्युक्तप्रकारेण ध्वजपताकादिभिरलंकृतं दिव्यगोपुरमासाद्य, श्रीद्वारपालकैर्महता कोलाहलेन सत्कृत:,  *समतीत्य जनाकुलम्* *कवाटमतीत्य गत्वा* इत्युक्तप्रकारेण चित्तं नेत्रं च बलादाकर्षयन्,

*अयोध्या* अपराजिता* इत्युक्तं वैकुण्ठमहानगरं कथंचित् प्रविश्य ‘श्री वैकुण्ठाय दिव्यनगराय नमः’ इति श्रीकृष्णस्य परमाकाशनगरं प्रणमति।

तदा वैकुण्ठस्था अमराः मुनयश्च अहो! सह्याद्रि शिखरगतं सागरजलमिव संसारस्थोऽय मतद्देशं प्राप्तः खलु ! इति विस्मिता: एनं प्रशंसन्ति। ततो गरुडविष्वक्सेनप्रभृतयो देवाः एनं स्वस्वगृहं प्रापय्य उच्चासने निवेश्य स्वयमधस्तात् स्थिताः स्वमहिषीभिर्दीयमानेन जलेनास्य श्रीपादौ प्रक्षाल्य, अस्य प्रभावं वर्णयन्त: सत्कारक्रमेण  सत्कुर्वन्ति। ततः श्रीशठकोपं दिव्यचूर्णं पूर्णकुम्भान् मंगलदीपांश्च दधत्यः देशान्तरादागतं पुत्रं पश्यन्त्यो मातर इव शीतलमुखाश्चन्द्रवदना योषितः प्रत्युद्गच्छन्ति। अयं च राजपथेन महाविथ्या अन्तः प्रविश्य दिव्यावरणशतसहस्रावृतं प्रतप्तकार्तस्वरकृतं दिव्यालयं प्राप्य, “श्री वैकुण्ठाय दिव्यविमानायं नमः”- इति प्रणम्य, अभिनववर्षेणेव स्वागमनेनात्यन्तमभिवृद्धैः दुर्विवेचनपत्रशाखैः नानावर्णैः नानागन्धैरप्राकृतकुसुमैर्निविडीकृतैः मकरन्दं प्रवहद्भिः कल्पकवनैः नानाविधैः पुष्परत्नैश्च कृतैर्लीलामण्डपैः अपूर्ववद्विस्मयमावहद्भिः क्रीडाशैलैः श्रीवैकुण्ठनाथस्य महालक्ष्म्याश्च लीलापरिकरभूतैः श्रोत्रयोरतिमधुरं कूजद्भिः शुकसारिकामयूरकोकिलादिभिः माणिक्यमुक्ताप्रवालप्रभृतिरत्नकृत सोपानैः नित्यमुक्तजनहृदयवत् सुशीतलैः स्वच्छैर मृतरसैर्दिव्यजलैः पूर्णैः नानाविधपक्षिसंघसमाकीर्णैं: सर्वत्र सर्वन्मधुप्रवाहै: * स्त्रीणां मुखानि नेत्राणि च  धत्ते* इत्युक्तप्रकारेण चन्द्रवदनानां योषितां मुखानां नेत्राणां चोपमानभूतैः पद्मसौगन्धिकप्रभृतिभिर प्राकृतकुसुमैर्विराजितैर्महातटाकैः नानापुष्पविरचितैश्शयनैः परिमलवहेषु पुष्पेषु निविष्टनां मधुप्रवाहमग्नानां गानानुमेयानां देवभ्रमराणां दिव्यगान्धर्वेण प्रविष्टानुन्मादयद्भिः दिव्योद्यानशतसहस्रैरावृतं नानारत्नविचित्रस्थलम् अनेक सहस्ररत्नस्तम्भैरलंकृतम् उभयविभूतिस्था अपि यथैक देशस्यैव पर्याप्ताः स्युः तथाविधावकाशयुक्तम् पद्मसौगन्धिकचन्दनागरुकर्पूरप्रभृतीनि स्पृशता मन्दानिलेन सेव्यमानम् निरतिशयानन्दमयं श्रीमहामणिमण्डपं प्राप्य ‘आनन्दमयाय रत्नमण्डपाय नमः’ इति दण्डवत्प्रणमति। तत्र सर्वस्मात्परस्य मूलभूतस्य गुहामृतस्य सततास्वादनादभिवृद्धाः वैकुण्ठनाथेन साम्यमापन्नाः भगवदनुभवजनितहर्षेण सामगानं कुर्वन्ति केचित्, *श्रीमद्वचः कवयः ! प्राणान् रक्षन्तो दास्यं कुरुत *(सह० १० ।७ ।१) * इति आनन्दनद्यां शीलगुणरूपावर्ते अगाधस्थले चिह्नयष्टिं स्थापयन्ति केचित्, स्वाचार्य प्रति, ‘आभरणविशिष्टस्य श्रीमत्पुण्डरीकाक्षस्य महोपकारकस्य स्थितिं प्रादर्शयत’ इति कार्तज्ञ्माविष्कुर्वन्ति केचित्, ‘सम्बन्धिदास्यं कृत्वा त्वच्चरणौ लब्धवानहम्, इत: परमपीदमेव मम स्यात्’ इति वदन्ति केचित्, मन्नाशमदृष्टा मदन्तरेकीभूतस्य वचनावधिं (उपकारसीमां) न पश्याम्यहं किं वदामि वदत”  इति वदन्ति केचित्,

नमो नारायणायेति वदन्ति” 

इत्युक्तप्रकारेण निरन्तरवक्तव्यं श्रीमन्त्रं वदन्तः आत्मसमर्पणं कुर्वन्ति केचित्, उरुगुमाल दशके श्रीपरांकुशसूरिवत् । प्रबलपापयुतं प्रेमरूपपापविशिष्ट मां बाघमानैर्गुणैर्युक्त ! * इत्याद्युक्तप्रकारेण उन्मस्तकदास्यरसेन

*नम इत्येव वादिनः* *नमश्शब्दं प्रयुंजते*

इत्युक्तप्रकारेण नमश्शब्द वदन्ति केचित्।

एवं प्रलयजलधाविव आनंदसागरे भ्रमद्भिः नित्यमुक्तैरुच्यमानानि श्रोत्रसुखावहानि सुवचनानि नृशंसजनोक्तक्रूरवचनश्रवणजं दुःखजातं यथा निवर्तेत तथा श्रोत्रगोचराणि कुर्वन् गत्वा, दिव्यस्थानं प्राप्य तस्मिन् महासदसि मध्ये स्वस्वमस्तकधृतदिव्यायुधेषु सांजलिवन्धेषु अस्त्रशस्त्राख्येषु दिव्यपुरुषेषु, स्वसंकल्पकृतसकल जगत्सृष्टिस्थितिसंहारकश्रीसेनेशप्रभृतिषु दिव्यपुरुषेषु यथाक्रमं प्रणम्य स्थितेषु ।

।। इत्यर्चिरादौ द्वितीयं प्रकरणम्।।

 

Published by ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: