तत्त्व त्रय (चित) (संस्कृत मूल)

  1. मुमुक्षोश्चेतनस्य मोक्षोत्पतौ तत्त्वत्रयज्ञानम् अपेक्षितम| तत्त्वत्रयं चिदचिदीश्वरम|
  2. चिदित्यात्मोच्यते. आत्मस्वरुप गत्वगत्योतरोत्तरमित्युक्तप्रकारेण देहेन्द्रियमनःबुद्धिभ्यो विलक्षणमऽजड़मानंदरूपं नित्यमणु अव्यक्तमचिन्त्यं निरवयवं निर्विकारं ज्ञानाश्रय ईश्वरस्य नियाम्यं धार्य शेषम्|
  3. आत्मस्वरूपं कथं देहादिविलक्षणमिति चेत्, देहादीनाम मम देहादिकमिति आत्मनः पृथगलुपभ्यमानत्वात इदमित्युपलभ्यमानत्वात, आत्मनोऽहमित्युपलम्भात् अस्य कदाचिदुपलम्भात् आत्मनः सर्वदोपलम्भात् एतेपामनेकत्वादात्मन एकत्वादात्म एतेभ्यो विलक्षण: स्वीकार्य: एवं युक्तीनाम वाघसम्भावनायामपि शास्त्रबलेनात्मा देहादिविलक्षण: सिध्यति| 
  4. नित्यत्वं सर्वकाळ वर्तित्वम् सर्वकाल सत्वे जन्ममरणाद्युपपत्तिः कथमिति चेन्न, जन्म देहसम्बन्धो, मरणं देहवियोगः। 
  5. अणुत्वं, कथमिति चेत् ,हृदय प्रदेशादुत्क्रमणगमनागमनानां शास्त्रेणोक्तत्वादणुत्वं भवति.

6. हृदयदेशे तिष्ठति चेत्सर्वत्र शरीरे सुखदुःखे कथमनुभवतीति चेन्न, मणिद्युमणिदीपादीनामेकदेशस्थानां प्रभा यथा सर्वत्र व्याप्नोति, तथा ज्ञानं सर्वत्र व्याप्नोत्यतो न तद्भोगविरोधः, एकस्यैककालेऽनेकशरीरपरिग्रहस्व ज्ञान व्याप्त्या

7. अव्यक्तत्वं नाम घटपटादिग्राहिचक्षुराय्मा- हयत्वम् ।

8. अचिन्त्यत्वं नामाची सजातीयता चिन्त.तुम महत्वम्

9. निरवयवत्वं नामावयवसमुदायानात्मकत्वम्

10. निर्विकारत्वं नामाचिद्विकारत्वेन विनैकरूप तयावस्थानम्

11. एवंस्थितत्वाच्छस्त्राग्निजलवातातपप्रभृतिभिश्छेदनदहनक्लेदनशोषणादीनामयोग्यम् ।

12. एवंस्थितत्वाच्छस्त्राग्निजलवातातपप्रभृतिभिश्छेदनदहनक्लेदनशोषणादीनामयोग्यम् ।

13. आर्हता आत्मा देह परिणाम इत्याहुः, तच्छ्रुतिविरुद्धम्. अनेक देहान्परिगृह्णतां योगिनां स्व रुपस्य शैथिल्यं च प्रसज्येत ।

14. ज्ञानाश्रयत्वं  नाम ज्ञानस्याधारत्वम्

15. आत्मा ज्ञानानाधारो ज्ञानमात्रमिति चेत् , अहं ज्ञानमित्येव प्रतिसंदधीत नत्वहं जानामीति ।

16. ज्ञातेत्युक्तौ कर्ता भोक्ता चेत्युक्तः. कर्तृत्वभोक्तृत्वे ज्ञानावस्थाविशेषौ।

17.  केचिद् गुणानामेव कर्तृत्वं नात्मन इति वदन्ति तदाऽस्य शास्त्रवश्यत्वं भोक्तृत्वं च न स्यात्

18. सांसारिकप्रवृत्तिषु कर्तृत्वं न स्वरूपप्रयुक्तमपितु गुणसंसर्गकृतम् . कर्तृत्वं चेश्वराधीनम् ।

19. ज्ञानाश्रयश्चेदयं शास्त्रेषु ज्ञानत्वेन कथन्निर्द्दिश्यते, ज्ञानेन विनास्य प्रकाशात् ज्ञानस्य सार भूतगुणत्वेन निरूपकधर्मतया तथा निर्दिश्यते।

20. नियाम्यत्त्वं नामेश्वरबुद्ध्यधीनसकलव्यापात्वम्

21. धार्य्यत्वं नाम तत्स्वरूपसंकल्पव्यतिरेक प्रयुक्तस्वसत्ताव्यतिरेकयोग्यत्वम्.

22.  शेषत्वं नाम चन्दनकुसुमताम्बूलादिवत्तस्ये विनियोगार्हत्वम् . इदं गृहक्षेत्रपुत्रूकलत्रादिवत्पृथक् स्थित्यादीनां योग्यं न भवति किंतु शरीरवत्तदयोग्यं भवति।

23.आत्मस्वरूपं च बद्धमुक्त नित्य भेदन त्रिविधम्,बद्धा इत्युच्यन्ते संसारिणः, मुक्ता निवृत्तसंसाराः, नित्या इत्युच्यन्ते कदापि संसारमप्राप्ताः शेषशेषाशनादयः

24. जलस्यामिसंसृष्टस्थालीसंसर्गेण यथोष्ण्यशब्दादयो जायन्ते, तथात्मनोऽचित्संबन्धेनाऽविद्या कर्मवासनारुचयो जायन्ते, अचिनिवृत्तावविद्यादयो निवर्तन्त इति वदन्ति ।

25. कश्चित्संसरति कश्चिन्मुच्यते कश्चिच्छिप्यः कश्चिदाचार्य इति च न स्यात्, विषमसृष्टिश्च नोपद्यते. आत्मभेदमभिदधत्या श्रुत्या च विरोधः।

26. श्रुतिरौपाधिकं भेदमभिधत्त इति न शक्यते वक्तुम् . मोक्षदशायाम्भेदसत्त्वात्. तदानीं देवमनुप्यादिभेदानाञ्च निवृत्तावात्मनां स्वरूपस्यात्यन्तसमतया केनापि प्रकारेण भेदकथनायोग्यत्वेऽपि परिमाणगुरुत्वाकाराणां साम्येपि स्वर्णकलशरत्नव्रीहिप्रभृतीनां यथा भेदः सिध्यति, तथाऽऽत्मस्वरूपभेदः सिद्धः, तस्मादात्मभेदः स्वीकार्यः।

27. एतेषां लक्षणं शेषत्वसहितं ज्ञातृत्वम्,

28. एतेषां ज्ञानं स्वरूपमिव नित्यं द्रव्यजड़मानन्दरूपञ्च.

29. तर्हि ज्ञानस्वरूपयोः परस्परं वैलक्षण्यं किमिति चेत् , स्वरूपं धर्म्मि संकोचाविकासार्न्ह स्वव्यतिरिक्ताऽप्रकाशकं स्वस्मै स्वयंप्रकाशकमणु, ज्ञानं धर्मः संकोचविकासयोग्यं स्वव्यतिरिक्ताऽप्रकाशकं स्वस्मै स्वाऽप्रकाशमात्मने प्रकाशकं विभु च.

30. तत्र केषांचित् ज्ञानं सदा विभु, केषाश्चिज्ज्ञानं सदाऽविभु, केषाश्चिज्ज्ञानं कदाचिद्वभु.

31. ज्ञानं नित्यं चेन्मम ज्ञानमुत्पन्नं नष्टमिति व्यवहारः कथमिति चेत्, इन्द्रियद्वारा प्रसृत्त्य विषयान् गृह्णाति निवर्तत इत्यतस्तथा व्यवहियते. इदमेकमपि नानात्वेन भासते प्रसरणभेदेन.

32. द्रव्यत्वं कथमिति चेत् क्रियागुणानामाश्रयत्वादजड़त्वात् च द्रव्यम् भवति. अजड़त्व चेत् सुषुप्ति मूच्छादिषु कुतो न प्रकाशत इति चेत् , प्रसरणाभावान्न प्रकाशते.

33. आनंद रूप त्वं नाम ज्ञानस्य प्रकाश अवस्थायामनुकूलत्वम्म् . विपशस्त्रादिप्रकाशनावसरे प्रतिकूलत्वस्य हेतुर्देहात्मभ्रमादयः, ईश्वरात्मकत्वात्सवैषाम्पदार्थानामानुकूल्यमेव स्वभावः, प्रातिकूल्यमौपाधिकम्. अन्यदानुकूल्यं स्वाभाविकं चेत् , कस्य चित् कुत्रचित्कालदेशयोरनुकूलानि चन्दनकुसुमादीनि, देशान्तर कालान्तरे तस्यैव तद्देश एव तत्काल एवाऽन्यस्य प्रतिकूलानि न स्युः ॥

Published by ramanujramprapnna

studying Ramanuj school of Vishishtadvait vedant

One thought on “तत्त्व त्रय (चित) (संस्कृत मूल)

Leave a Reply

Fill in your details below or click an icon to log in:

WordPress.com Logo

You are commenting using your WordPress.com account. Log Out /  Change )

Google photo

You are commenting using your Google account. Log Out /  Change )

Twitter picture

You are commenting using your Twitter account. Log Out /  Change )

Facebook photo

You are commenting using your Facebook account. Log Out /  Change )

Connecting to %s

%d bloggers like this: