प्रथमं प्रकरणम्
श्रिय: पत्युः सर्वेश्वरस्य विभूतिद्वयमपि शेषभूत भवति। तत्र भोगविभूतौ वर्तमाना: कान्तिमत्कटकवती श्री: त्वं चे’त्युक्तप्रकारेण तदाज्ञा यथैकैव स्यात् तथा तदभिमानेऽन्तर्भवन्ति। लीलाविभूतिस्थास्तु ते नित्ययुक्ता इवच्छन्दानुवर्तिनो न भवन्ति। किन्तु संकल्पानुविधायिनः,
नम इत्येव वादिनः
इत्युक्तस्थितिविपरीततया, न नमेयम् ईश्वरोऽहम् इत्युक्तप्रकारेण अहम् मदीयमिति तिष्ठन्ति ते। व्यापारनिष्ठा अमराः; तद्विपरीततया ऐते, अन्यं देवं स्तुत्वा नृत्यन्ति ते।
उत्कृष्टा वेदविमलाः इत्युक्ता महापुरुषाः, एते क्षुद्राः। ते दिव्यज्ञानोपपन्नाः, एते अज्ञा मानवाः। ते तेजोरूपदिव्यदेहविशिष्टाः, एते मलिनशरीराः। ते विपन्यव: इत्युक्तप्रकारेण भगवत् स्तुतिशीलाः, एते अन्यान् स्तुवन्ति। ते, तवैव दास्यं करवाम इत्युक्तप्रकारेण तस्य दास्यं कुर्वन्ति; एते मारक्रूरशरान् सेवमानाः, भक्तिधारणपूर्वकं कैङ्कर्यामृतमभुंजानाः कामिन्यधरामृतं पिबन्तः; स एकधा भवति द्विधा भवति इत्यस्य वैपरीत्येन अनेक कुलेषु जायमाना:, चक्रशङ्खे न धृत्वा तेन सहासंचरन्तः शरीरमार्गे भ्रमन्तः *एतद्व्रतमित्युक्ततव्रतविपरीतं यत्किंचिदवलम्ब्य व्यावर्तनव्रतमारोप्य तद्दीयमानसंश्लेषरसमेवादृत्याधावमित्युक्तप्रकारेण दीर्घमहाबाहोरप्यविषयतां गत्वा अल्पसारानास्वाद्य विमुखा स्तिष्ठन्ति।
एतेषां नीचस्वभावं दृष्ट्वा परित्यागमकृत्वा स्वाभाविकसम्बधेन हेतुनोपरुद्ध्य संचरत: सर्वभूतसुहृदस्सर्वेश्वरस्य यत्नविशेषः कदाचित् कस्मिंश्चिदवकाशे फलति। तदा (अयं चेतनः) अद्वेषाभिसन्धिमान् मोक्षसमीक्षायुक्तः प्रवर्धमानवैराग्यो विवेकाभिनिवेशी सदाचार्यं समाश्रित्य कृतयज्ञः कृतः परदेवतोद्देशात्मरूपहविस्त्यागात्मको यज्ञो येन सः।
कृतकृत्यः संसारक्रौर्यमनुसन्धाय, सर्पास्यग तमण्डूकवत् दावाग्निव्याप्तमृगीवत्, कोटिद्वयावलग्नज्वलनकाष्ठमध्यगतपिपीलिकेव, चको वा सहायो भवतीति तरंगितजलसमुद्रे निमज्जन्नौरिव च व्याकुल:, बहु प्रदर्शयन् व्यामोहयसि, इतः परमपि नाशयसि पंच दिशि दिशि बलादाकर्षन्ति * वस्त्रमन्नं च देहीति बाधन्ते। इतीन्द्रियक्रौर्य स्मरणेनाक्रुश्य, अचिन्त्यं दु:खमुत्पादयति कोऽयं लोकस्वभावः, जीवनाशं दृष्ट्वा न सहामि *
हा हा लोकस्यायं स्वभाव: इति संसारिणां दु:खं द्रष्टुम सहमानः, उन्मत्ता एव मम सर्वेऽपि, लौकिकैस्संगो मम दुस्सहः , लौकिकैस्सह सङ्गमत्यजम् , इत्युक्तरीत्या राक्षसीसहवासासहिष्णु: जानकीव, अनित्यशरीरस्थितिं परमार्थं निश्चित्य अन्नमेव वस्त्रमेव चादृत्य संचरद्भिः शौरिचिन्ता विमुखैः संसारिभिः सहवासमसहमान:, एतत्स्वभावमितः परं न प्राप्नुयाम् कुत्र त्वां प्राप्नुयाम् दिवसं (त्वत्प्राप्तिकालं) न जानामि परमाकाशं कदा वा प्राप्नुयाम्, इतः परं धर्तुन्न शक्नोमि, आह्वानकाल: इदानीमपि न सन्निहितो भवति इत्यायुक्तप्रकारेण भगवदनुभवालाभेन अत्यन्तं खिन्नः, अग्निसंयुक्तमधूच्छिष्टसदृशः, हा आगत्य दर्शनं देहीत्युक्त्वा शुष्कनेत्राननो भूत्वा, तथापि तददर्शनेन, दिनमेकंकल्पसहस्रं मन्वानः, * प्रायश: पापकारित्वात् मृत्योरुद्विजते जनः। कृतकृत्याः प्रतीक्षन्ते मृत्युं प्रियमिवातिथिम् । ।
इत्युक्तप्रकारेण शरीरविमोचनकालं प्रतीक्षमाणः । महिष्युच्छिष्टादर- कृद्राजपुत्रवत् स्वत्यक्तदेहे आदरं कुर्वाणमीश्वरं, नश्यत्विदम् (शरीरम्) इत्यपेक्ष्य,
भुक्तवानसि सर्वस्वमय्यास्वाद्यान्तर्हितोऽसि* “श्रिया शापित:, त्वयैव शापित, नेत: परं त्वां विजह्याम्” इत्यवरुद्ध्य यथा प्राप्नुयात् तथा परम भक्तिं प्राप्य, अथवा भक्त्यभिवृद्धि विना विनोक्ति मात्रेऽन्वीय, यद्वा, * मदीयं जन्म नानृतम् यदा विष्णुचित्तार्यः उचितैरुपायैः स्वदेवमाकारयेत्तदा पश्येयम् इत्याद्युक्तप्रकारेण अमोघं सिद्धोपाय मार्ग ज्ञात्वा भागवत सर्प विलक्षण समाश्रयणं प्राप्य विशदज्ञानोऽर्चिरादिमार्गविरोधिदोषरहितः निर्दोष: तिष्ठति । अस्य शरीरावसानकाले सर्वेश्वरः, यदाऽयं त्वं स्वचरण नतमस्तक तदा प्रभृति ऋणं प्रवृद्धमिव|
मद्दासानां किं कुर्यामित्येव प्रतीक्षमाणो वर्तसे। इत्यायुक्त प्रकारेण प्रत्युपकारमन्विष्य कमप्यलभमानः किं कर्तव्यतामूढः कैंकर्यं स्वीकर्तुं निश्चित्य उन्मूलितदन्तसर्पवत् संसारस्य अपुनरंकुरं मूले छिन्नेऽपि शवोऽप्युत्थाय दशति किमित्यतिशंकया उचितदेशं गमयितुं कृतनिश्चयः तदर्थं त्वरन्,
एतस्याभिनिवेशो यथा गोष्पदे स्यात् तथा महाभिनिवेशशाली, क्षणकालमपि विलम्बमकुर्वाण: यथा चक्रवर्ती वसिष्ठवामदेवादीनाहूय तैस्साकं स्वतनूजाभिषेकविषयकं मनोरथमाविश्चकार, तथा नित्यसूरीनाहूय मार्गमलंचिकीर्षुः, अलंकारविधिंकृत्स्नं कारयामास वेश्मनि। इत्युक्तरीत्या गृहमलंकृत्य, अनादिकालोपार्जितानि एतत्कृताचार्यसमाश्रयणकालप्रभृतिप्रतिहतशक्तिकतया विनष्टकल्पस्वरूपाणि क्वचित्कोणे निलीनानि कर्माणि अनुकूलविषये प्रतिकूलविषये च, वरुणमुद्दिश्य चापे आरोपितं शरं मरुकान्तार इव संक्रमय्य नरके पति जाने तत् सम्बन्धिनः, एतत्सम्बन्धिनश्चान्ये स्वर्गस्थाः प्रभवन्ति ते इत्युक्तप्रकारेण स्वर्गस्थान् करवाणीति संकल्प्य, ऊड: पंचात्मना तेन ताक्ष्यरूपेण इति मुदितं पक्षिणं स्वयमारुह्य संचरति * इत्याधुक्तप्रकारेण कृपासागरं पक्षिणं (मत्पुरतः) संचारय इत्याद्येतदीयप्रार्थनानुसारेण गरुत्मन्त मारोहन्नाविर्भूय सुवर्णपर्वताधिरूढमहामेघसदृशं स्वदिव्यमंगलविग्रहमनुभाव्य, आतिवाहकानाहूय, एतस्य सत्कारक्रमविशेषाना ज्ञाययति ।
ततः इन्दियैर्मनसि सम्पद्यमानैर्वांङ्मनसि । सम्पद्यते, मनः प्राणे प्राणस्तेजसि तेज: परस्यां देवतायाम् {प्र. उप. ३९}इत्युक्तप्रकारेण अस्य बाह्यकरणानि अन्तःकरणे लीयन्ते, (समीपं प्राप्नोति) अन्तःकरणं प्राणे, प्राण: अस्मिन् चेतने, चेतनो
भूतसूक्ष्मविशिष्ट: परमात्मन्येकीभवति। अनन्तरं यथा धर्मकाले रविकिरणतप्तः सच्छायं वृक्षमाश्रित्य शान्तश्रमो भवति तथा संसारदु:खतप्तोऽयं वासुदेव तरुच्छायामाश्रित्य शान्तश्रमो भवति। तिरुक्कोवलूरुगमनसमये श्रीपरकालसूरिण: स्वाभिमत दिव्यदेशे सर्वेष्वपि स्वचरणौ गीत्वा इत्युक्तप्रकारेण लोकविक्रान्तचरणौ यथा पाथेयमभूतां तथा,
* प्राणप्रयाणपाथेयम् * पाथेयं पुण्डरीकाक्षनामसंकीर्तनामृतम् इत्युक्तप्रकारेण द्वयोच्चारणं पाथेयं भवति। एतेन प्रतिपद्यमाना: देवयानपथास्सर्वे मुक्तिमार्गाभिलाषिण: इत्युक्तप्रकारेण अर्चिरादिमार्ग एव महामार्गो भवति।
अण्डा बहिर्गमयिता स्वामी आप्ततमश्शेषशायी कुटिलालक पुण्डरीकाक्षः बिम्बाधर कालमेघ श्रीरंगनिलयस्सहायभूत इति स एव मार्गसहायो भवति; विरजातीरं तिल्यवृक्षः आरम्हदतटश्च विश्रामस्थलं भवति। श्रीमहामणिमण्डप एव गन्तव्यस्थानं भवति, अर्चिरादिपुरुषा एव संल्लापसहायाः। व्याप्ताभ्रध्वनिरेव प्रयाणपटहध्वनिर्भवति। प्रीत्या मार्गप्रदेनास्मद्देवेशेन हार्दैनानुगृहीतं मार्ग प्राप्य गमने सन्नद्धः प्रीत्यतिशयेन अनादिकालमारभ्य स्व विषये अक्रूर संसारम्
नरकं ह स चित्तेत्युक्तप्रकारेण परावृत्य प्रश्यन् हसन् महावैकुण्ठं द्रष्टुं पूर्वमेव विद्यामानायामाशायामुपर्युपरि वर्धमानायाम्, श्रीजानकी विभीषणश्च लंकाया इव हृदय कमलान्निष्क्रम्य।
शतंचैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका। इयुक्तप्रकारेण हृदयाश्रितास्वेकाधिकशतसंख्याकासु
नाडीषु सुषुम्ना नामकया मूर्धन्य नाड्या विद्यामाहात्म्येन देवयानानुस्मृत्या च प्रसन्ने हार्दे मार्गं द्योतयति गत्वा शिरःकपालं भित्वा, आसु नाडीषु सृप्ताः आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः…….
‘अथैतैरेव रश्मिभिर्ध्वम् आक्रमते (छान्दोग्य ० ८ ।६ ।५ ।)
इत्युक्तप्रकारेण तन्नाड्या सम्बन्धः, आदित्यरश्मिमनुसरन्, ॐ काररथमारुह्येत्युक्त प्रकारेण प्रणवरथमारुह्य मनस्सारथिर्गछति।
तदा कैष्यारुशक्करदशके दिवस इव ‘सर्वावयका जातमिव’ उभयविभूतिरपि नवनवं भासते, समुद्रः स्वगाम्भीर्यं सर्वं विहाय उन्मृत्तिकं कलुषीभूय नृत्यति ऊर्ध्वलोकस्थास्सर्वेऽपि-उपहारपाणयो महान्ति तोरणानि बद्ध्वा सर्वमप्याकाश अवकाशं पूर्णकुम्भपूर्णं कृत्वा धूपपुष्पाणि वर्षन्ति । अयं कदाचिद स्थित्वा गच्छेदित्याशया पुरतो देवेषु वासस्थानं कल्पयत्सु, सर्वलोकपंथ (कम्पं) घोषेषु समुद्रेष्विव महाघोषास्समुद्रा इव वाद्येषु वाद्यमानेषु, मार्गस्थेषु सर्वेषु मदीयं पदं स्वीक्रियतामिति स्वस्थानानि ऐश्वर्य च समर्पयत्सु, केषुचिद्गीतानि गायत्सु, केषुचिद्ज्ञादि सुकृतफलान्यर्पयत्सु, अन्येषु केषुचित् धूपादिना अर्चयत्सु, केषुचित् काहलशंखादीन् वादयत्सु अतिकान्तिमन्नयनासु-आतिवाहिकमहिषीषु इदमराजकं माभूत, एतत्पालय’ इति मंगलाशासनं कुर्वन्तीषु मरुत्सु वसुषु च अयं त्वरयागच्छति चेत् ईश्वरेण अस्मदधीनं कृतं कार्यं निर्वर्तितं भवेदिति-अनिवृत्य अस्मदरधीनं कृतं लोकान्तरेषु चानुसृत्य तच्छोत्रगोचरं स्तुवत्सु, अन्येषु सर्वेषु चांजलिं कुर्वत्सु महता सत्कारेण गच्छति, तदा च अर्चिषमेवाभिसंभवन्ति अर्चिषोऽह: अह्न आपूर्यमाणपक्षम् अग्निज्योतिरहश्शुक्ल: षण्मासा उत्तरायणम् इति छान्दोग्य वाजनेयकौषीतकिप्रभृति षूक्तप्रकारेण अर्चिरादिपुरुषेषु मार्गप्रदर्शयत्सु अयं गच्छति।
One thought on “प्रथम प्रकरणम् (संस्कृत मूल)”